शिव मानस पूजा स्तोत्र Shiva Manasa Puja Hindi Lyrics. शिवमानसपूजा - रत्नैः कल्पितमासनं. Composed by Sri Adi Shankaracharya, Shiva Manasa Puja is a wonderful and powerful prayer to perform mental worship of Mahadev. Hindu devotional blog provides you the hindi language lyrics of Shiva Manasa Pooja.
शिव मानस पूजा स्तोत्र Shiva Manasa Puja Hindi Lyrics
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं,
नानारत्नविभूषितं मृगमदा मोदाङ्कितं चन्दनम्।
जाती-चम्पक-बिल्व-पत्र-रचितं पुष्पं च धूपं तथा,
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥1॥
सौवर्णे नवरत्न-खण्ड-रचितेपात्रे घृतं पायसं
भक्ष्यं पञ्च-विधं पयो-दधि-युतंरम्भाफलं पानकम्।
शाकानामयुतं जलं रुचिकरंकर्पूर-खण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु॥2॥
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलम्
वीणा-भेरि-मृदङ्ग-काहलकला गीतं च नृत्यं तथा।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो॥3॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोग-रचना निद्रा समाधि-स्थितिः।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्॥4॥
www.hindudevotionalblog.com
कर-चरण-कृतं वाक् कायजं कर्मजं वा
श्रवण-नयनजं वा मानसं वापराधम्।
विहितमविहितं वा सर्वमेतत्-क्षमस्व
जय जय करुणाब्धे श्री महादेव शम्भो॥5॥
--
Shiva Manasa Pooja in Other Languages
Shiva Manasa Pooja Malayalam Lyrics
Shiva Manasa Pooja Tamil Lyrics
Shiva Manasa Puja English Lyrics
--
Comments
Post a Comment