उमामहेश्वर स्तोत्रम Uma Maheswara Stotram Lyrics Hindi Language

उमामहेश्वर स्तोत्रम - रचन: शन्कराचार्य. Uma Maheswara Stotram Hindi Lyrics. Nama Sivabhyam Nava Youvanabhyam is one of the popular mantras address to Lord Shiva and Goddess Parvati. Uma Maheswara Stotra is composed by Adi Sankara Bagawat Pada. Get lyrics below.

उमामहेश्वर स्तोत्रम Uma Maheswara Stotram Hindi Lyrics

नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगॆन्द्रकन्यावृषकॆतनाभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 1 ॥

नमः शिवाभ्यां सरसॊत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणॆनार्चितपादुकाभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 2 ॥

नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलॆपनाभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 3 ॥

नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 4 ॥

नमः शिवाभ्यां परमौषधाभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 5 ॥

नमः शिवाभ्यामतिसुन्दराभ्यां
अत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशॆषलॊकैकहितङ्कराभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 6 ॥

नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदॆवताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 7 ॥
नमः शिवाभ्यामशुभापहाभ्यां
अशॆषलॊकैकविशॆषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 8 ॥

नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलॊचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 9 ॥

नमः शिवाभ्यां जटिलन्धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जॊद्भवपूजिताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 10 ॥
www.hindudevotionalblog.com

नमः शिवाभ्यां विषमॆक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शॊभावतीशान्तवतीश्वराभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 11 ॥

नमः शिवाभ्यां पशुपालकाभ्यां
जगत्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदॆवासुरपूजिताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 12 ॥

स्तॊत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां
भक्त्या पठॆद्द्वादशकं नरॊ यः ।
स सर्वसौभाग्यफलानि
भुङ्क्तॆ शतायुरान्तॆ शिवलॊकमॆति ॥ 13 ॥


Uma Maheswara Stotram lyrics in Hindi Language

More Popular Mantras in Hindi 









--

Comments

Search Hindu Devotional Topics

Contact Hindu Devotional Blog

Name

Email *

Message *