श्री अय्यप्प धर्मशास्ता त्रिशति नामावलिः Ayyappa Dharmashasta Trishati Namavali 300 Names

श्री अय्यप्प धर्मशास्ता त्रिशति नामावलिः Ayyappa Dharmashasta Trishati Namavali 300 Names. Shri Ayyappa Trishati is the 300 names mantra of Lord Ayyappa or Sree Dharmasastha of Sabarimala. 

श्री अय्यप्पा या धर्मशास्त त्रिशति नमावली Ayyappa Trishati or 300 Names of Lord Ayyappa

श्रीगणेशाय नमः ।

ॐ शास्त्रे नमः । धर्मशास्त्रे । शरणागतवत्सलाय ।
श्रीकराय । श्रीनिलयाय । श्रीनिवासनन्दनाय । परमेशात्मजाय ।
परमात्मने । परमैश्वर्यदायकाय । पुण्यरूपाय । तत्पुरुषाय ।
निर्वाणसुखदायकाय । पाण्ड्यनाथाय । पुण्यदायकाय । पद्मनाभनन्दनाय ।
वाञ्छितार्थप्रदाय । पूज्याय । पूर्णेन्दुवदनप्रभाय । पापरहिताय ।
पापनाशनाय नमः । २०

ॐ पुष्पवनविराजिताय नमः । प्राणेश्वराय । प्रियङ्कराय ।
सर्वमानसेश्वराय । पावनात्मने । चराचरात्मने ।
परापरज्ञानदायकाय । प्रणवस्वरूपाय । प्राणदायकाय ।
सर्वोन्नतपदालङ्कृताय । परदेवाय । परमान्नप्रियाय ।
पादानुपादभक्तसहचराय । परमाणवे । प्रसिद्धाय ।
परमनिर्भरमानसाय । परमगुरुवराय । श्लाघनीयाय ।
पम्पापुळिनसम्भवाय । छुरिकायुधधराय नमः । ४०

ॐ वाजिवाहनाय नमः । सर्वविश्वविधायकाय । चित्स्वरूपाय ।
चेतनारूपाय । कैवल्यपददायकाय । चापधराय । बाणधराय ।
लोकक्षेमतत्पराय । चितिरूपाय । अचिन्त्यरूपाय । नित्ययौवनस्थिताय ।
रुद्रतनयाय । रौद्ररहिताय । राज्यैश्वर्यकारणाय । इन्द्रवन्द्याय ।
इष्टदेवाय । कविहृदयविराजिताय । योगासनस्थिताय । चिन्मुद्राङ्किताय ।
महीपालनतत्पराय नमः । ६०

ॐ भक्तरूपाय नमः । भक्तदासाय । बन्धमोचनकारणाय ।
जगत्सर्वरूपाय । जनिमृतिनाशनाय । जननीपालनतत्पराय ।
कामरहिताय । कामनाशनाय । निष्कामकर्मकारणाय । क्रोधरहिताय ।
क्रोधनाशनाय । चराचरशान्तिदायकाय । लोभरहिताय ।
लोभनाशनाय । दुर्लभज्ञानदायकाय । निर्मोहाय । मोहनाशनाय ।
सुखभोगपरित्यक्ताय । देषरहिताय । वृषनाशनाय नमः । ८०

ॐ तत्त्वमसि तत्त्वप्रबोधिताय नमः । रागरहिताय । रागनाशनाय ।
अहम्भावनाशनाय । ब्रह्मचार्यै । ब्राह्मणेश्वराय ।
गात्रक्षेत्रनिवासिताय । बाणनिपुणाय । अपराजिताय ।
दुष्टमहिषीनिग्रहकर्त्रे । भूतनाथाय । भूतहितकराय ।
कीर्तनश्रवणतत्पराय । राजीवलोचनाय । वीराय । दिव्यात्मने ।
भक्तवत्सलाय । इरुमुडिप्रियाय । कल्पनावल्लभाय ।
पुण्यापुण्यफलप्रदाय नमः । १००

ॐ दयारूपाय नमः । वानतुल्याय । पन्तळप्रभुपालिताय ।
दुष्टनाशकराय । दुराचारशमनाय । शिष्टरक्षातत्पराय ।
दिव्यमनस्विने । शुद्धमनस्विने । साधुमानसविराजिताय ।
दिव्यज्योतिषे । मकरज्योतिषे । ज्योतिप्रभाकारणाय । तिर्यक् सेविताय ।
चराचरात्मने । बाललीलातत्पराय । धर्मरूपाय । धनाद्ध्यक्षाय ।
समस्तैश्वर्यदायकाय । धर्मप्रदाय । अर्थप्रदाय नमः । १२०

ॐ कामप्रदाय नमः । मोक्षप्रदाय । ध्यातरूपाय । ध्येयरूपाय ।
दिव्याभरणभूषिताय । धनरूपाय । धान्यरूपाय ।
धनधान्यविवर्धिताय । सुन्दराङ्गाय । प्रसन्नवदनाय ।
सोमार्धधारिनन्दनाय । सर्वेन्द्रियस्थिताय । सदानन्दाय ।
सर्वसत्सङ्गकारकाय । स्वर्लोकनाथाय । सुप्रसन्नाय ।
सहस्रार्कप्रभाशोभिताय । सह्याद्रिनिलयाय । सह्याधिपतये ।
सर्वापमृत्युनिवारकाय नमः । १४०


श्री धर्मशास्ता त्रिशति नामावलिः Dharmashasta Trishati Namavali 300 Names



ॐ सुरवन्द्याय नमः । सुरपूजिताय । विशुद्धज्ञानदेहिने ।
सर्वौषधाय । महाभिषग्वराय । सर्वज्वरार्त्तिनाशनाय ।
सर्ववन्द्याय । सदावन्द्याय । सर्वोपर्युपस्थिताय । सर्वाधाराय ।
शबरीवासाय । षड्गुणपरिपूरिताय । सत्यरूपाय । ज्ञानरूपाय ।
आनन्दरूपाय । सनातनाय । शरच्चन्द्रवदनाय । षडाधारस्थिताय ।
अष्टादशपदाधिपतये । श्रेयस्कराय नमः । १६०

ॐ शान्तिदायकाय नमः । शरणध्वनिश्रवणतल्पराय । शाश्वताय ।
शैलनिलयाय । शाश्वतैश्वर्यदायकाय । षडाधाराय ।
योगाधाराय । सहस्राम्बुजस्थिताय । मन्त्ररूपाय । तन्त्ररूपाय ।
यन्त्ररूपाय । सुरेश्वराय । मध्यमाय । वैखरीरूपाय । पश्यन्ते ।
सर्वभूतहृदयेश्वराय । मायातीताय । महामतये । अमेयाय ।
कुसुमप्रियाय नमः । १८०

ॐ मणिकण्ठाय नमः । आमोदप्रदाय । श्रीनीलकण्ठनन्दनाय ।
अतुल्ययौवनयुक्ताय । अप्राप्तयौवनाय । अनितरशक्तिवैभवाय ।
निर्मलचित्ताय । एकदेवाय । परमैश्वर्यनिलयाय । निश्चलचित्ताय ।
निरुपमाय । नारदादिसंसेविताय । नित्याय । निर्मलचरिताय ।
निर्विकल्पाय । निरामयाय । विप्रपूजिताय । विप्रवन्दिताय ।
दुर्भ्यवलोकनायकाय । वरदाय नमः । २००

ॐ वननिवासाय नमः । व्याघ्रोपर्युपस्थिताय । वनजाताय ।
वनराजाय । वन्यमृगसंसेविताय । विश्वपूजिताय । विश्ववन्दिताय ।
सर्वविश्वैकरक्षकाय । वित्तदायकाय । विद्यादायकाय । विविधाकाराय ।
हितकराय । वावर् मित्राय । वन्यमृगेश्वराय । दुर्दशानिवारकाय ।
कल्याणरूपाय । कमनीयरूपाय । रत्नाभरणभूषिताय ।
करिमुखसोदराय । षण्मुखसोदराय नमः । २२०

ॐ चतुर्मुखादिवन्दिताय नमः । घृताभिषेकप्रियाय ।
पुष्पाभिषेकप्रियाय । भस्माभिषेकप्रियाय । वनेश्वराय ।
सङ्गीतप्रियाय । काव्यसंस्थिताय । कालारिप्रियनन्दनाय ।
कान्तमानसाय । कारण्वेश्वराय । करुणामृतसागराय । करिमलवासाय ।
नीलिमलवासाय । उत्तुङ्गश‍ृङ्गवासिताय । कोमळाकाराय ।
कोमळाननाय । भक्तहृदयविराजिताय । कामरूपाय । प्रियङ्कराय ।
लोकमाताप्रियमानसाय नमः । २४०

ॐ कालातीताय नमः । गुणातीताय । वाञ्छितफलदायकाय ।
करुणासागराय । करुणानिधये । काञ्चनगेहवासिने । कल्पनातीताय ।
केरळेश्वराय । दिव्यकाञ्चनविग्रहाय । कलिकालजाताय । कलिहीनाय ।
कलिकालजनरक्षकाय । अनन्ताय । आद्यन्तहीनाय । पम्पातीरविराजिताय ।
अमितप्रभाय । नित्यप्रभाय । अर्कप्रभाकारकाय । अवस्थाहेतवे ।
अवस्थारहिताय नमः । २६०

ॐ अकालमृत्युनिवारकाय नमः । अमराय । अज्ञानान्तकाय ।
शैवविष्णुशक्तिसमन्विताय । अर्काय । अनघाय । अनिलाय ।
अष्टादशसोपानोपर्युपस्थिताय । अद्वैताय । द्वैतरहिताय ।
केवलज्ञानदायकाय । अन्नदानप्रभवे । विभवे । अन्नरूपाय ।
ऊर्जकारणाय । आधारसूनवे । मोहिनीसूनुवे । अनन्तगुणपूरिताय ।
आत्मरूपाय । आत्मानन्ददायकाय नमः । २८०

ॐ परब्रह्मस्वरूपकाय नमः । रणवीराय । रामेश्वरराजे ।
रामेश्वरप्रियनन्दनाय । तारेश्वराय । नवग्रहेश्वराय ।
सर्वशक्तिसमन्विताय । योगाधाराय । तुरीयाय । सदाचारतत्पराय ।
योगीश्वराय । योगाचार्याय । षडाधारोपर्युपस्थिताय । महायोगिने ।
दिव्ययोगिने । योगाचारतत्पराय । ब्रह्मात्मैक्यस्वरूपाय ।
अनाथबान्धवाय । बृहद्भावनावैभवाय । सर्वभूतानां सर्वथा
जाग्रत्स्वप्नसुषुप्तिसाक्षिदेवाय । श्रीहरिहरनन्दनाय नमः । ३०१

इति श्रीहरिदासविरचितं श्रीशबरिगिरीश्वर-प्रीतिविधायकं
श्रीधर्मशास्तात्रिशती नामावलिः सम्पूर्णा ।

श्री अय्यप्प त्रिशति नामावलिः Ayyappa Trishati Namavali 300 Names




Comments

Search Hindu Devotional Topics

Contact Hindu Devotional Blog

Name

Email *

Message *