नरसिंह कवच Narasimha Kavach Sanskrit Lyrics

नरसिंह कवच Narasimha Kavach Sanskrit Lyrics. नरसिम्हा कवच का जाप हिंदू आध्यात्मिकता में गहरा महत्व रखता है क्योंकि यह भगवान नरसिम्हा की दिव्य सुरक्षा और आशीर्वाद का आह्वान करता है। ऐसा माना जाता है कि यह शक्तिशाली भजन भक्त के चारों ओर एक आध्यात्मिक ढाल बनाता है, जो नकारात्मक प्रभावों, प्रतिकूलताओं और अनदेखी खतरों से सुरक्षा प्रदान करता है। 

भक्त साहस, शक्ति और निडरता की तलाश में नरसिम्हा कवच की ओर रुख करते हैं, जिससे यह भौतिक और आध्यात्मिक दोनों क्षेत्रों में बाधाओं पर काबू पाने के लिए एक श्रद्धेय अभ्यास बन जाता है। इस पवित्र भजन का लयबद्ध पाठ न केवल दैवीय सुरक्षा की भावना प्रदान करता है, बल्कि आध्यात्मिक विकास के मार्ग के रूप में भी काम करता है, जो भगवान नरसिम्हा की उत्कृष्ट ऊर्जा के साथ एक गहरे संबंध को बढ़ावा देता है।

नरसिंह कवचम् - Narasimha Kavach Lyrics in Sanskrit 

नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ १॥

सर्व सम्पत्करं चैव स्वर्गमोक्षप्रदायकम् ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ २॥

विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् ।
लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥ ३॥

चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् ।
सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ ४॥ (रत्नकेयूरशोभितम्)

तप्तकाञ्चनसंकाशं पीतनिर्मलवाससम् ।
इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ ५॥

विराजितपदद्वन्द्वं शङ्खचक्रादि हेतिभिः ।
गरुत्मता च विनयात् स्तूयमानं मुदान्वितम् ॥ ६॥ (सविनयं)

स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।
नृसिंहो मे शिरः पातु लोकरक्षार्थसम्भवः ॥ ७॥ (आत्मसम्भवः)

सर्वगोऽपि स्तम्भवासः भालं मे रक्षतु ध्वनिम् ।
नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥ ८॥

स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः ।
नासं मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥ ९॥

सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विन्दुवदनं सदा प्रह्लादवन्दितः ॥ १०॥

नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरान्तकृत् ।
दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥ ११॥

करौ मे देववरदो नृसिंहः पातु सर्वतः ।
हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥ १२॥ (हृददं)

मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।
नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥ १३॥

ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम् ।
गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् ॥ १४॥

ऊरू मनोभवः पातु जानुनी नररूपधृक् ।
जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥ १५॥

सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।
सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥ १६॥

महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥ १७॥

पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।
नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥ १८॥

ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः ।
संसारभयतः पातु मृत्योर्मृत्युर्नृकेसरी ॥ १९॥



नरसिंह कवच Narasimha Kavach Sanskrit Lyrics
Narasimha picture for chanting Narasimha Kavach


फलश्रुतिः

इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।
भक्तिमान् यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ २०॥ (सर्वपापात्)

पुत्रवान् धनवान् लोके दीर्घायुरुपजायते ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ २१॥ (कामान्)

सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् ।
भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम् ॥ २२॥

वृश्चिकोरगसम्भूत विषापहरणं परम् ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥ २३॥

भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् ।
करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥ २४॥ (तस्य कार्याणि)

देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् ।
एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥ २५॥

सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति ।
द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां नृणाम् ॥ २६॥ (यः पठेत् शुद्धमानसः)

कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते ।
अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥ २७॥

तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् ।
त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥ २८॥ (वारिभ्य मन्त्र्य च)

प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् ।
तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः ॥ २९॥

किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।
मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम् ॥ ३०॥

रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् । (क्षोभयन्तं क्षिपन्तम् ।
वीक्षन्तं घूर्णयन्तं शरनिकरशतैर्दिव्यसिंहं नमामि ॥ ३१॥ (करनिकर)

॥ इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्रीनृसिंहकवचं सम्पूर्णम् ॥

Comments

Search Hindu Devotional Topics

Contact Hindu Devotional Blog

Name

Email *

Message *