श्री लक्ष्मी नृसिंह द्वादश नाम स्तोत्र Sri Lakshmi Narasimha Dwadasa Nama Stotram is believed to be powerful in attracting wealth, prosperity, and abundance in one's life. By regularly chanting these Stotram, one can manifest financial success and stability.
श्री लक्ष्मी नृसिंह द्वादश नाम स्तोत्र Sri Lakshmi Narasimha Dwadasa Nama Stotram
प्रणम्य शिरसा देवं नृसिंहं भक्तवत्सलम् |
सच्चिदानंदरुपोयं परिपूर्ण जगद्गुरुम् ||
|| विनियोगः ||
अस्य श्री लक्ष्मीनृसिंह द्वादशनाम स्तोत्रमन्त्रस्य |
पुरन्दर ऋषिः | श्रीलक्ष्मीनृसिंहो देवता |
अनुष्टुप छन्दः | क्ष्रौं बीजं | ॐ श्री शक्तिः |
ॐ लक्ष्मीनृसिंहप्रीत्यर्थे जपे विनियोगः |
|| न्यास ||
ॐ क्ष्रां अङ्गुष्ठाभ्यां नमः |
ॐ क्ष्रीं तर्जनीभ्यां नमः |
ॐ क्ष्रूं मध्यमाभ्यां नमः |
ॐ क्ष्रैं अनामिकाभ्यां नमः |
ॐ क्ष्रौं कनिष्ठिकाभ्यां नमः |
ॐ क्ष्रः करतलकरपृष्ठाभ्यां नमः |
ॐ क्ष्रां हृदयाय नमः |
ॐ क्ष्रीं शिरसे स्वाहा |
ॐ क्ष्रूं शिखायै वौषट |
ॐ क्ष्रैं कवचाय हुम् |
ॐ क्ष्रौं नेत्रत्रयाय वौषट |
ॐ क्ष्रः अस्त्राय फट |
|| ध्यानं ||
लक्ष्मीशोभितवामभागममलं सिंहासने सुन्दरं
सव्ये चक्रधरं च निर्भयकरं वामेन चापं वरं |
सर्वाधीशकृतान्तपत्रममलं श्रीवत्सवक्षःस्थलं
वन्दे देवमुनीन्द्र वन्दितपदं लक्ष्मीनृसिंहं विभुम् ||
|| स्तोत्रं ||
प्रथमं तु महाज्वालो द्वितीयं उग्र केसरी |
वज्रनखस्तृतीयं तु चतुर्थन्तु विदारणः ||
सिंहास्यः पञ्चमं चैव षष्ठं कशिपुमर्दनः |
सप्तमं रिपुहन्ता च अष्टमं देववल्ल्भः ||
प्रह्लादराजो नवमं दशमं द्वादशात्मकः |
एकादशं महारुद्रो द्वादशं करुणानिधिः ||
एतानि द्वादश नामानि नृसिंहस्य महात्मनः |
मंत्रराजेति विख्यातं सर्वपापहरं शुभम् ||
ज्वरापस्मारकुष्टादितापज्वरनिवारणं |
राजद्वारे तथा मार्गे संग्रामेषु जलान्तरे ||
गिरिगव्यहरगोव्ये व्याघ्रचोरमहोरगे |
आवर्तनं सहस्त्रेषु लभते वाञ्छितं फलम् ||
|| श्रीब्रह्मपुराणे ब्रह्मनारदसम्वादे श्रीलक्ष्मीनृसिंह द्वादशनाम स्तोत्रं सम्पूर्णं ||
Comments
Post a Comment