श्री षष्ठी देवी स्तोत्र Shashti Devi Stotra Hindi Lyrics

श्री षष्ठी देवी स्तोत्र or श्रीषष्ठीदेवि स्तोत्रम् Shashti Devi Stotra Hindi Lyrics. Shashti Devi Stotra is a powerful mantra of Goddess Sashti Devi, the wife of Lord Subramanya or Muruga. Below is the lyrics of the mantra in Hindi by hindu devotional blog. This is a prayer to be chanted by the childless couple. 

श्री षष्ठी देवी स्तोत्र

ध्यानम् ।

श्रीमन्मातरमम्बिकां विधि मनोजातां सदाभीष्टदां
स्कन्देष्टां च जगत्प्रसूं विजयदां सत्पुत्र सौभाग्यदाम् ।

सद्रत्नाभरणान्वितां सकरुणां शुभ्रां शुभां सुप्रभां
षष्ठांशां प्रकृतेः परां भगवतीं श्रीदेवसेनां भजे ॥

षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठां च सुव्रताम् ।
सुपुत्रदां च शुभदां दयारूपां जगत्प्रसूम् ॥

श्वेतचम्पक वर्णाभां रक्तभूषण भूषिताम् ।
पवित्ररूपां परमां देवसेनां पराम्भजे ॥

अथ श्रीषष्ठीदेवि स्तोत्रम् ।

स्तोत्रं शृणु मुनिश्रेष्ठ सर्वकामशुभावहम् ।
वाञ्छाप्रदं च सर्वेषां गूढं वेदे च नारद ॥

प्रियव्रत उवाच ।

नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ।
शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः ॥ १॥

वरदायै पुत्रदायै धनदायै नमो नमः ।
सुखदायै मोक्षदायै च षष्ठीदेव्यै नमो नमः ॥ २॥

www.hindudevotionalblog.com
सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः । var शक्तिषष्ठीस्वरूपायै
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ॥ ३॥

परायै पारदायै च षष्ठीदेव्यै नमो नमः ।
सारायै सारदायै च परायै सर्वकर्मणाम् ॥ ४॥

बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः ।
कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ॥ ५॥

प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः ।
पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु ॥ ६॥

देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः ।
शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ॥ ७॥

हिंसाक्रोधवर्जितायै षष्ठीदेव्यै नमो नमः ।
धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ॥ ८॥

धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः ।
भूमिं देहि प्रजां देहि देहि विद्यां सुपूजिते ॥ ९॥

कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ।

॥ फलश्रुति ॥


इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः ॥ १०॥

यशस्विनं च राजेन्द्रं षष्ठीदेवीप्रसादतः ।
षष्ठीस्तोत्रमिदं ब्रह्मन्यः शृणोति च वत्सरम्॥ ११।

अपुत्रो लभते पुत्रं वरं सुचिरजीविनम् ।
वर्षमेकं च या भक्त्या संयत्तेदं शृणोति च ॥ १२॥

www.hindudevotionalblog.com
सर्वपापाद्विनिर्मुक्ता महावन्ध्या प्रसूयते ।
वीरपुत्रं च गुणिनं विद्यावन्तं यशस्विनम् ॥ १३॥

सुचिरायुष्मन्तमेव षष्ठीमातृप्रसादतः ।
काकवन्ध्या च या नारी मृतापत्या च या भवेत् ॥ १४॥

वर्षं शृत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः ।
रोगयुक्ते च बाले च पिता माता शृणोति चेत् ॥ १५॥

मासं च मुच्यते बालः षष्ठीदेवी प्रसादतः ।

॥ इति श्रीब्रह्मवैवर्ते महापुराणे इतिखण्डे नारदनारायणसंवादे षष्ठ्युपाख्याने श्रीषष्ठीदेविस्तोत्रं सम्पूर्णम् ॥

श्री षष्ठी देवी स्तोत्र Shashti Devi Stotra Hindi Lyrics

Sashti Devi Stotram Lyrics with English Meaning

--



--

Comments

Search Hindu Devotional Topics

Contact Hindu Devotional Blog

Name

Email *

Message *